std 7 sanskrit 1

प्रेहेलिका:

वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः । 

त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः ॥१ ॥ 

नरनारीसमुत्पन्ना सा स्त्री देहविवर्जिता । 

अमुखी कुरूते शब्दं जातमात्रा विनश्यति ॥ २ ॥ 

कृष्णमुखी न मार्जारी द्विजिह्वा न च सर्पिणी । 

पञ्चभर्ता न पाञ्चाली यो जानाति सः पण्डितः ॥३ ॥ 

दन्तैहीनः शिलाभक्षी निर्जीवो बहुभाषकः । 

गुणस्यूतिसमृद्धोऽपि परपादेन गच्छति ॥ ४ ॥ 

कस्तूरी जायते कस्मात् को हन्ति करिणां कुलम ।

 किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायनम् ॥५ ॥

प्रेहेलिका: ૭

Leave a Comment